त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत् ।त्यजेत्क्रोधमुखीं भार्यां निःस्नेहान्बान्धवांस्त्यजेत् ॥