अयममृतनिधानं नायकोऽप्योषधीनाम्अमृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः ।भवतिविगतरश्मिर्मण्डलं प्राप्य भानोःपरसदननिविष्टः को लघुत्वं न याति ॥