दानेन पाणिर्न तु कङ्कणेनस्नानेन शुद्धिर्न तु चन्दनेन ।मानेन तृप्तिर्न तु भोजनेनज्ञानेन मुक्तिर्न तु मुण्डनेन ॥