व्यालाश्रयापि विफलापि सकण्टकापिवक्रापि पङ्किलभवापि दुरासदापि ।गन्धेन बन्धुरसि केतकि सर्वजन्तो-रेको गुणः खलु निहन्ति समस्तदोषान् ॥