प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावःसदसदिदमशेषं भासयन्निर्विशेषः ।विलसति परमात्मा जाग्रदादिष्ववस्थास्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः || 135 || ॥