विवेकचूडामणि

Verses

Verse NumberSanskrit Verse
1 विवेकचूडामणिः ॥
1 सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् । गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् || 1 || ॥
2 जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् । आत्मानात्मविवेचनं स्…
3 दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम् । मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः || 3 || ॥
4 लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् । यस्त्वात्ममुक्तौ न यतेत मूढधीः स ह्यात्महा स्वं वि…
5 इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति । दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् || 5 || ॥
6 वदन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवताः । आत्मैक्यबोधेन विनापि विमुक्तिः न सिध्यति ब्रह्मश…
7 अमृतत्त्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः । ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः || 7 || ॥
8 अतो विमुक्त्यै प्रयतेत विद्वान् सन्न्यस्तबाह्यार्थसुखस्पृहः सन् । सन्तं महान्तं समुपेत्य देशिकं तेनोपदिष्टार्थसमाहित…
9 उद्धरेदात्मनाऽऽत्मानं मग्नं संसारवारिधौ । योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया || 9 || ॥
10 सन्न्यस्य सर्वकर्माणि भवबन्धविमुक्तये । यत्यतां पण्डितैर्धीरैरात्माभ्यास उपस्थितैः || 10 || ॥
11 चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये । वस्तुसिद्धिर्विचारेण न किञ्चित्कर्मकोटिभिः || 11 || ॥
12 सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा । भ्रान्तोदितमहासर्पभयदुःखविनाशिनी || 12 || ॥
13 अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः । न स्नानेन न दानेन प्राणायामशतेन वा || 13 || ॥
14 अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः । उपाया देशकालाद्याः सन्त्यस्मिन्सहकारिणः || 14 || ॥
15 अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः ॥ समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् || 15 || ॥
16 मेधावी पुरुषो विद्वानूहापोहविचक्षणः । अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः || 16 || ॥
17 विवेकिनो विरक्तस्य शमादिगुणशालिनः । मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता || 17 || ॥
18 साधनान्यत्र चत्वारि कथितानि मनीषिभिः । येषु सत्स्वेव सन्निष्ठा यदभावे न सिध्यति || 18 || ॥
19 आदौ नित्यानित्यवस्तुविवेकः परिगण्यते । इहामुत्रफलभोगविरागस्तदनन्तरम् । शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम् |…
20 ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः । सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः || 20 || ॥
21 तद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः । जुगुप्सा या देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि || 21 || ॥
22 विरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः । स्वलक्ष्ये नियतावस्था मनसः शम उच्यते || 22 || ॥
23 विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके । उभयेषामिन्द्रियाणां स दमः परिकीर्तितः । बाह्यानालम्बनं वृत्तेरेषोपरति…
24 सहनं सर्वदुःखानामप्रतीकारपूर्वकम् । चिन्ताविलापरहितं सा तितिक्षा निगद्यते || 24 || ॥
25 शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् । सत्यबुद्ध्यावधारणा सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते || 25 || ॥
26 सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा । सम्यगास्थापनं तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् || 26 || ॥
27 अहङ्कारादिदेहान्तान् बन्धानज्ञानकल्पितान् । स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता || 27 || ॥
28 मन्दमध्यमरूपापि वैराग्येण शमादिना । प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् || 28 || ॥
29 वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते । तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः || 29 || ॥
30 एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः । मरौ सलिलवत्तत्र शमादेर्भानमात्रता || 30 || ॥
31 मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी । स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते || 31 || ॥
32 स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः । उक्तसाधनसम्पन्नस्तत्त्वजिज्ञासुरात्मनः । उपसीदेद्गुरुं प्राज्ञं यस्माद्बन्ध…
33 श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः । ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः । अहेतुकदयासिन्धुर्बन्धुरानमता…
34 तमाराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः । प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः || 34 || ॥
35 स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ । मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या …
36 दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः । भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यद्यदहं न जाने || 36…
37 शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः । तीर्णाः स्वयं भीमभवार्णवं जनानहेतुनान्यानपि तारयन्तः || …
38 अयं स्वभावः स्वत एव यत्पर- श्रमापनोदप्रवणं महात्मनाम् । सुधांशुरेष स्वयमर्ककर्कश - प्रभाभितप्तामवति क्षितिं किल …
39 र्युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय । सन्तप्तं भवतापदावदहनज्वालाभिरेनं प्रभो धन्यास्ते भवदीक्षणक्…
40 कथं तरेयं भवसिन्धुमेतं का वा गतिर्मे कतमोऽस्त्युपायः । जाने न किञ्चित्कृपयाऽव मां प्रभो संसारदुःखक्षतिमातनु…
41 तथा वदन्तं शरणागतं स्वं संसारदावानलतापतप्तम् । निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यादभीतिं सहसा महात्मा || 41 …
42 विद्वान् स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधु यथोक्तकारिणे । प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्…
43 मा भैष्ट विद्वंस्तव नास्त्यपायः संसारसिन्धोस्तरणेऽस्त्युपायः । येनैव याता यतयोऽस्य पारं तमेव मार्गं तव निर्दिशा…
44 अस्त्युपायो महान्कश्चित्संसारभयनाशनः । तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि || 44 || ॥
45 वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् । तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु || 45 || ॥
46 श्रद्धाभक्तिध्यानयोगान्मुमुक्षोः मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः । यो वा एतेष्वेव तिष्ठत्यमुष्य मोक्षोऽविद्याकल्…
47 अज्ञानयोगात्परमात्मनस्तव ह्यनात्मबन्धस्तत एव संसृतिः । तयोर्विवेकोदितबोधवह्निः अज्ञानकार्यं प्रदहेत्समूलम् || 47 |…
48 शिष्य उवाच । कृपया श्रूयतां स्वामिन्प्रश्नोऽयं क्रियते मया । यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् || 48 …
49 को नाम बन्धः कथमेष आगतः कथं प्रतिष्ठास्य कथं विमोक्षः । कोऽसावनात्मा परमः क आत्मा तयोर्विवेकः कथमेतदुच्यताम् …
50 श्रीगुरुवाच । धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया । पावितं यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि || …
51 ऋणमोचनकर्तारः पितुः सन्ति सुतादयः । बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन || 51 || ॥
52 मस्तकन्यस्तभारादेर्दुःखमन्यैर्निवार्यते । क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् || 52 || ॥
53 पथ्यमौषधसेवा च क्रियते येन रोगिणा । आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्ठितकर्मणा || 53 || ॥
54 वस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेनैव वेद्यं न तु पण्डितेन । चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् ||…
55 अविद्याकामकर्मादिपाशबन्धं विमोचितुम् । कः शक्नुयाद्विनाऽऽत्मानं कल्पकोटिशतैरपि || 55 || ॥
56 न योगेन न साङ्ख्येन कर्मणा नो न विद्यया । ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा || 56 || ॥
57 वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् । प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते || 57 || ॥
58 वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये || 58 || ॥
59 अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला । विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला || 59 || ॥
60 शब्दजालं महारण्यं चित्तभ्रमणकारणम् । अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञैस्तत्त्वमात्मनः || 60 || ॥
61 अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना । किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः || 61 || ॥
62 न गच्छति विना पानं व्याधिरौषधशब्दतः । विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते || 62 || ॥
63 अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वमात्मनः । ब्रह्मशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् || 63 || ॥
64 अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् । राजाहमिति शब्दान्नो राजा भवितुमर्हति || 64 || ॥
65 आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्षणं स्वीकृतिं निक्षेपः समपेक्षते न हि बहिःशब्दैस्तु निर्गच्छति । तद्वद्ब्रह्मविद…
66 तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये । स्वैरेव यत्नः कर्तव्यो रोगादाविव पण्डितैः || 66 || ॥
67 यस्त्वयाद्य कृतः प्रश्नो वरीयाञ्छास्त्रविन्मतः । सम्मतः सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः || 67 || ॥
68 शृणुष्वावहितो विद्वन्यन्मया समुदीर्यते । तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे || 68 || ॥
69 मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यन्तमनित्यवस्तुषु । ततः शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ताखिलकर्मणां भृ…
70 ततः श्रुतिस्तन्मननं सतत्त्व- ध्यानं चिरं नित्यनिरन्तरं मुनेः । ततोऽविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृ…
71 यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् । तदुच्यते मया सम्यक् श्रुत्वात्मन्यवधारय || 71 || ॥
72 मज्जास्थिमेदःपलरक्तचर्म - त्वगाह्वयैर्धातुभिरेभिरन्वितम् । पादोरुवक्षोभुजपृष्ठमस्तकैः अङ्गैरुपाङ्गैरुपयुक्तमेतत् ||…
73 अहम्ममेति प्रथितं शरीरं मोहास्पदं स्थूलमितीर्यते बुधैः । नभोनभस्वद्दहनाम्बुभूमयः सूक्ष्माणि भूतानि भवन्ति तानि…
74 परस्परांशैर्मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतवः । मात्रास्तदीया विषया भवन्ति शब्दादयः पञ्च सुखाय भोक्तुः…
75 य एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमेन । आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः |…
76 शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्वगुणेन बद्धाः । कुरङ्गमातङ्गपतङ्गमीन भृङ्गा नरः पञ्चभिरञ्चितः किम् || 76…
77 दोषेण तीव्रो विषयः कृष्णसर्पविषादपि । विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् || 77 || ॥
78 विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् । स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि || 78 || ॥
79 आपातवैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतियातुमुद्यतान् । आशाग्रहो मज्जयतेऽन्तराले निगृह्य कण्ठे विनिवर्त्य वेगा…
80 विषयाख्यग्रहो येन सुविरक्त्यसिना हतः । स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः || 80 || ॥
81 विषमविषयमार्गैर्गच्छतोऽनच्छबुद्धेः प्रतिपदमभियातो मृत्युरप्येष विद्धि । हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या प्र…
82 मोक्षस्य काङ्क्षा यदि वै तवास्ति त्यजातिदूराद्विषयान्विषं यथा । पीयूषवत्तोषदयाक्षमार्जव - प्रशान्तिदान्तीर्भज नित्य…
83 अनुक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबन्धमोक्षणम् । देहः परार्थोऽयममुष्य पोषणे यः सज्जते स स्वमनेन हन्ति ||…
84 शरीरपोषणार्थी सन् य आत्मानं दिदृक्षति । ग्राहं दारुधिया धृत्वा नदीं तर्तुं स गच्छति || 84 || ॥
85 मोह एव महामृत्युर्मुमुक्षोर्वपुरादिषु । मोहो विनिर्जितो येन स मुक्तिपदमर्हति || 85 || ॥
86 मोहं जहि महामृत्युं देहदारसुतादिषु । यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् || 86 || ॥
87 त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसङ्कुलम् । पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः || 87 || ॥
88 पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा । समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः । अवस्था जागरस्तस्य स्थूलार्थान…
89 बाह्येन्द्रियैः स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करोति जीवः स्वयमेतदात्मना तस्मात्प्रशस्तिर्वपुषोऽस्…
90 सर्वोऽपि बाह्यसंसारः पुरुषस्य यदाश्रयः । विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः || 90 || ॥
91 स्थूलस्य सम्भवजरामरणानि धर्माः स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः । वर्णाश्रमादिनियमा बहुधाऽऽमयाः स्युः पूजा…
92 बुद्धीन्द्रियाणि श्रवणं त्वगक्षि घ्राणं च जिह्वा विषयावबोधनात् । वाक्पाणिपादा गुदमप्युपस्थः कर्मेन्द्रियाणि प्रवणेन…
93 निगद्यतेऽन्तःकरणं मनोधीः अहङ्कृतचित्तमिति स्ववृत्तिभिः । मनस्तु सङ्कल्पविकल्पनादिभिः बुद्धिः पदार्थाध्यवसायधर्मतः…
94 अत्राभिमानादहमित्यहङ्कृतिः । स्वार्थानुसन्धानगुणेन चित्तम् || 94 || ॥
95 प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः । स्वयमेव वृत्तिभेदाद्विकृतिभेदात्सुवर्णसलिलादिवत् || 95 || ॥
96 वागादि पञ्च श्रवणादि पञ्च प्राणादि पञ्चाभ्रमुखानि पञ्च । बुद्ध्याद्यविद्यापि च कामकर्मणी पुर्यष्टकं सूक्ष्मशरीरमाहु…
97 इदं शरीरं शृणु सूक्ष्मसंज्ञितं लिङ्गं त्वपञ्चीकृतभूतसम्भवम् । सवासनं कर्मफलानुभावकं स्वाज्ञानतोऽनादिरुपाधिरात्म…
98 स्वप्नो भवत्यस्य विभक्त्यवस्था स्वमात्रशेषेण विभाति यत्र । स्वप्ने तु बुद्धिः स्वयमेव जाग्रत् कालीननानाविधवासनाभिः …
99 कर्त्रादिभावं प्रतिपद्य राजते यत्र स्वयं भाति ह्ययं परात्मा । स्वयञ्ज्योतिरयं धीमात्रकोपाधिरशेषसाक्षी न लिप्यते त…
100 सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः । वास्यादिकमिव तक्ष्णस्तेनैवात्मा भवत्यसङ्गोऽयम् || 100 || ॥
101 अन्धत्वमन्दत्वपटुत्वधर्माः सौगुण्यवैगुण्यवशाद्धि चक्षुषः । बाधिर्यमूकत्वमुखास्तथैव श्रोत्रादिधर्मा न तु वेत्तुरात्मनः…
102 उच्छ्वासनिःश्वासविजृम्भणक्षुत्प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः । प्राणादिकर्माणि वदन्ति तज्ञाः प्राणस्य धर्मावशनापि…
103 अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि । अहमित्यभिमानेन तिष्ठत्याभासतेजसा || 103 || ॥
104 अहङ्कारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् । सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते || 104 || ॥
105 विषयाणामानुकूल्ये सुखी दुःखी विपर्यये । सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः || 105 || ॥
106 आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः । स्वत एव हि सर्वेषामात्मा प्रियतमो यतः । ततात्मा सदानन्दो नास्य दु…
107 यत्सुषुप्तौ निर्विषय आत्मानन्दोऽनुभूयते । श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति || 107 || ॥
108 अव्यक्तनाम्नी परमेशशक्तिः अनाद्यविद्या त्रिगुणात्मिका परा । कार्यानुमेया सुधियैव माया यया जगत्सर्वमिदं प्रसूयते…
109 सन्नाप्यसन्नाप्युभयात्मिका नो भिन्नाप्यभिन्नाप्युभयात्मिका नो । साङ्गाप्यनङ्गा ह्युभयात्मिका नो महाद्भुताऽनिर्वचनीयर…
110 शुद्धाद्वयब्रह्मविबोधनाश्या सर्पभ्रमो रज्जुविवेकतो यथा । रजस्तमःसत्त्वमिति प्रसिद्धा गुणास्तदीयाः प्रथितैः स्वकार्यै…
111 विक्षेपशक्ती रजसः क्रियात्मिका यतः प्रवृत्तिः प्रसृता पुराणी । रागादयोऽस्याः प्रभवन्ति नित्यं दुःखादयो ये मनसो…
112 कामः क्रोधो लोभदम्भाभ्यसूया अहङ्कारेर्ष्यामत्सराद्यास्तु घोराः । धर्मा एते राजसाः पुम्प्रवृत्तिर्यस्मादेषा तद्रजो ब…
113 एषाऽऽवृतिर्नाम तमोगुणस्य शक्तिर्मया वस्त्ववभासतेऽन्यथा । शक्तिर्यया सैषा निदानं पुरुषस्य संसृतेः विक्षेपशक्तेः …
114 प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मात्मदृग् व्यालीढस्तमसा न वेत्ति बहुधा सम्बोधितोऽपि स्फुटम् । भ्रान्त्यार…
115 अभावना वा विपरीतभावना सम्भावना विप्रतिपत्तिरस्याः । संसर्गयुक्तं न विमुञ्चति ध्रुवं विक्षेपशक्तिः क्षपयत्यजस्रम् …
116 अज्ञानमालस्यजडत्वनिद्रा- प्रमादमूढत्वमुखास्तमोगुणाः । एतैः प्रयुक्तो न हि वेत्ति किञ्चित् निद्रालुवत्स्तम्भवदेव तिष्…
117 सत्त्वं विशुद्धं जलवत्तथापि ताभ्यां मिलित्वा सरणाय कल्पते । यत्रात्मबिम्बः प्रतिबिम्बितः सन् प्रकाशयत्यर्क इवाखिलं …
118 मिश्रस्य सत्त्वस्य भवन्ति धर्माः त्वमानिताद्या नियमा यमाद्याः । श्रद्धा च भक्तिश्च मुमुक्षुता च दैवी च सम्पत्तिरसन्नि…
119 विशुद्धसत्त्वस्य गुणाः प्रसादः स्वात्मानुभूतिः परमा प्रशान्तिः । तृप्तिः प्रहर्षः परमात्मनिष्ठा यया सदानन्दरसं समृ…
120 अव्यक्तमेतत्त्रिगुणैर्निरुक्तं तत्कारणं नाम शरीरमात्मनः । सुषुप्तिरेतस्य विभक्त्यवस्था प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः…
121 सर्वप्रकारप्रमितिप्रशान्तिः बीजात्मनावस्थितिरेव बुद्धेः । सुषुप्तिरत्रास्य किञ्चिन्न वेद्मीति जगत्प्रसिद्धेः || 121 …
122 देहेन्द्रियप्राणमनोऽहमादयः सर्वे विकारा विषयाः सुखादयः । व्योमादिभूतान्यखिलं च विश्वं अव्यक्तपर्यन्तमिदं ह्यनात्…
123 माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम् । असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् || 123 || ॥
124 अथ ते सम्प्रवक्ष्यामि स्वरूपं परमात्मनः । यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते || 124 || ॥
125 अस्ति कश्चित्स्वयं नित्यमहम्प्रत्ययलम्बनः । अवस्थात्रयसाक्षी सन्पञ्चकोशविलक्षणः || 125 || ॥
126 यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु । बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् || 126 || ॥
127 यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन । किञ्चन यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् || 127 || ॥
128 येन विश्वमिदं व्याप्तं यं न व्याप्नोति किञ्चन । आभारूपमिदं सर्वं यं भान्तमनुभात्ययम् || 128 || ॥
129 यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः । विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव || 129 || ॥
130 अहङ्कारादिदेहान्ता विषयाश्च सुखादयः । वेद्यन्ते घटवद्येन नित्यबोधस्वरूपिणा || 130 || ॥
131 एषोऽन्तरात्मा पुरुषः पुराणो निरन्तराखण्डसुखानुभूतिः । सदैकरूपः प्रतिबोधमात्रो येनेषिता वागसवश्चरन्ति || 131…
132 अत्रैव सत्त्वात्मनि धीगुहायां अव्याकृताकाश उशत्प्रकाशः । उरुप्रकाशः आकाश उच्चै रविवत्प्रकाशते स्वतेजसा विश्वमिदं…
133 ज्ञाता मनोऽहङ्कृतिविक्रियाणां देहेन्द्रियप्राणकृतक्रियाणाम् । अयोऽग्निवत्ताननुवर्तमानो न चेष्टते नो विकरोति किञ्…
134 न जायते नो म्रियते न वर्धते न क्षीयते नो विकरोति नित्यः । विलीयमानेऽपि वपुष्यमुष्मि न लीयते कुम्भ इवाम्बरं …
135 प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः सदसदिदमशेषं भासयन्निर्विशेषः । विलसति परमात्मा जाग्रदादिष्ववस्था स्वहमहमित…
136 नियमितमनसामुं त्वं स्वमात्मानमात्मन्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् । जनिमरणतरङ्गापारसंसारसिन्धुं प्रतर भ…
137 अत्रानात्मन्यहमिति मतिर्बन्ध एषोऽस्य पुंसः प्राप्तोऽज्ञानाज्जननमरणक्लेशसम्पातहेतुः । येनैवायं वपुरिदमसत्सत्यमित्या…
138 अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा । ततोऽनर्थव्रातो निपतति समाद…
139 अखण्डनित्याद्वयबोधशक्त्या स्फुरन्तमात्मानमनन्तवैभवम् । समावृणोत्यावृतिशक्तिरेषा तमोमयी राहुरिवार्कबिम्बम् || 139 |…
140 तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान् अनात्मानं मोहादहमिति शरीरं कलयति । ततः कामक्रोधप्रभृतिभिरमुं बन्धनगुण…
141 महामोहग्राहग्रसनगलितात्मावगमनो धियो नानावस्थां स्वयमभिनयंस्तद्गुणतया । नानावस्थाः अपारे संसारे विषयविषपूरे …
142 भानुप्रभासञ्जनिताभ्रपङ्क्तिः भानुं तिरोधाय विजृम्भते यथा । आत्मोदिताहङ्कृतिरात्मतत्त्वं तथा तिरोधाय विजृम्भते स्…
143 कवलितदिननाथे दुर्दिने सान्द्रमेघैः व्यथयति हिमझञ्झावायुरुग्रो यथैतान् । अविरततमसाऽऽत्मन्यावृते मूढबुद्धिं क्षप…
144 एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः । याभ्यां विमोहितो देहं मत्वाऽऽत्मानं भ्रमत्ययम् || 144 || ॥
145 बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरो रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोऽसवः शाखिकाः । अग्राणीन्द्रियस…
146 अज्ञानमूलोऽयमनात्मबन्धो नैसर्गिकोऽनादिरनन्त ईरितः । जन्माप्ययव्याधिजरादिदुःखप्रवाहपातं जनयत्यमुश्य || 146 || ॥
147 नास्त्रैर्न शस्त्रैरनिलेन वह्निना छेत्तुं न शक्यो न च कर्मकोटिभिः । विवेकविज्ञानमहासिना विना धातुः प्रसादेन शि…
148 श्रुतिप्रमाणैकमतेः स्वधर्म निष्ठा तयैवात्मविशुद्धिरस्य । विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसारसमूलनाशः || 14…
149 कोशैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति । निजशक्तिसमुत्पन्नैः शैवालपटलैरिवाम्बु वापीस्थम् || 149 || ॥
150 तच्छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम् । तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः || 150 || ॥
151 पञ्चानामपि कोशानामपवादे विभात्ययं शुद्धः । नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयञ्ज्योतिः || 151 || ॥
152 आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा । तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम् || 152 || ॥
153 मुञ्जादिषीकामिव दृश्यवर्गात् प्रत्यञ्चमात्मानमसङ्गमक्रियम् । विविच्य तत्र प्रविलाप्य सर्वं तदात्मना तिष्ठति यः स मुक्त…
154 देहोऽयमन्नभवनोऽन्नमयस्तु कोशश्चान्नेन जीवति विनश्यति तद्विहीनः । ह्यन्नेन त्वक्चर्ममांसरुधिरास्थिपुरीषराशि नायं …
155 पूर्वं जनेरधिमृतेरपि नायमस्ति जातक्षणः क्षणगुणोऽनियतस्वभावः । नैको जडश्च घटवत्परिदृश्यमानः स्वात्मा कथं भवति …
156 पाणिपादादिमान्देहो नात्मा व्यङ्गेऽपि जीवनात् । तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः || 156 || ॥
157 देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः । सत एव स्वतःसिद्धं तद्वैलक्षण्यमात्मनः || 157 || ॥
158 शल्यराशिर्मांसलिप्तो मलपूर्णोऽतिकश्मलः । कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः || 158 || ॥
159 त्वङ्मांसमेदोऽस्थिपुरीषराशाः वहम्मतिं मूढजनः करोति । विलक्षणं वेत्ति विचारशीलो निजस्वरूपं परमार्थभूतम् || 15…
160 देहोऽहमित्येव जडस्य बुद्धिः देहे च जीवे विदुषस्त्वहन्धीः । विवेकविज्ञानवतो महात्मनो ब्रह्माहमित्येव मतिः सदात्म…
161 अत्रात्मबुद्धिं त्यज मूढबुद्धे त्वङ्मांसमेदोऽस्थिपुरीषराशौ । सर्वात्मनि ब्रह्मणि निर्विकल्पे कुरुष्व शान्तिं परमां …
162 देहेन्द्रियादावसति भ्रमोदितां विद्वानहन्तां न जहाति यावत् । तावन्न तस्यास्ति विमुक्तिवार्ता प्यस्त्वेष वेदान्तनयान्…
163 छायाशरीरे प्रतिबिम्बगात्रे यत्स्वप्नदेहे हृदि कल्पिताङ्गे । यथात्मबुद्धिस्तव नास्ति काचिजीवच्छरीरे च तथैव माऽस्तु…
164 देहात्मधीरेव नृणामसद्धियां जन्मादिदुःखप्रभवस्य बीजम् । यतस्ततस्त्वं जहि तां प्रयत्नात् त्यक्ते तु चित्ते न पुनर्भवा…
165 कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं प्राणो भवेत्प्राणमयस्तु कोशः । येनात्मवानन्नमयोऽनुपूर्णः प्रवर्ततेऽसौ सकलक्रियासु …
166 नैवात्मायं प्राणमयो वायुविकारो गन्ताऽऽगन्ता वायुवदन्तर्बहिरेषः । यस्मात्किञ्चित्क्वापि न वेत्तीष्टमनिष्टं स्वं वान्…
167 ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात् कोशो ममाहमिति वस्तुविकल्पहेतुः । संज्ञादिभेदकलनाकलितो बलीयां स्तत्पूर्वक…
168 पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः प्रचीयमानो विषयाज्यधारया । जाज्वल्यमानो बहुवासनेन्धनैः मनोमयाग्निर्दहति प्रपञ्च…
169 न ह्यस्त्यविद्या मनसोऽतिरिक्ता मनो ह्यविद्या भवबन्धहेतुः । तस्मिन्विनष्टे सकलं विनष्टं विजृम्भितेऽस्मिन्सकलं विजृम्…
170 स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या भोक्त्रादिविश्वं मन एव सर्वम् । तथैव जाग्रत्यपि नो विशेषः तत्सर्वमेतन्मनसो विजृम्भ…
171 सुषुप्तिकाले मनसि प्रलीने नैवास्ति किञ्चित्सकलप्रसिद्धेः । अतो मनःकल्पित एव पुंसः संसार एतस्य न वस्तुतोऽस्ति |…
172 वायुनाऽऽनीयते मेघः पुनस्तेनैव नीयते । मनसा कल्प्यते बन्धो मोक्षस्तेनैव कल्प्यते || 172 || ॥
173 देहादिसर्वविषये परिकल्प्य रागं बध्नाति तेन पुरुषं पशुवद्गुणेन । वैरस्यमत्र विषवत् सुविधाय पश्चाद् एनं विमोचयत…
174 तस्मान्मनः कारणमस्य जन्तोः बन्धस्य मोक्षस्य च वा विधाने । बन्धस्य हेतुर्मलिनं रजोगुणैः मोक्षस्य शुद्धं विरजस्तमस्कम्…
175 विवेकवैराग्यगुणातिरेकच्छुद्धत्वमासाद्य मनो विमुक्त्यै भवत्यतो बुद्धिमतो मुमुक्षोऽभ्यां दृढाभ्यां भवितव्यमग्रे || …
176 मनो नाम महाव्याघ्रो विषयारण्यभूमिषु । चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः || 176 || ॥
177 मनः प्रसूते विषयानशेषान् स्थूलात्मना सूक्ष्मतया च भोक्तुः । शरीरवर्णाश्रमजातिभेदान् गुणक्रियाहेतुफलानि नित्यम् |…
178 असङ्गचिद्रूपममुं विमोह्य देहेन्द्रियप्राणगुणैर्निबद्ध्य । अहम्ममेति भ्रमयत्यजस्रं मनः स्वकृत्येषु फलोपभुक्तिषु || 1…
179 अध्यासदोषात्पुरुषस्य संसृतिः अध्यासबन्धस्त्वमुनैव कल्पितः । रजस्तमोदोषवतोऽविवेकिनो जन्मादिदुःखस्य निदानमेतत् ||…
180 अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्त्वदर्शिनः । येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम् || 180 || ॥
181 तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा । विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते || 181 || ॥
182 मोक्षैकसक्त्या विषयेषु रागं निर्मूल्य सन्न्यस्य च सर्वकर्म । सच्छ्रद्धया यः श्रवणादिनिष्ठो रजःस्वभावं स धुनोति बुद्ध…
183 मनोमयो नापि भवेत्परात्मा ह्याद्यन्तवत्त्वात्परिणामिभावात् । दुःखात्मकत्वाद्विषयत्वहेतोः द्रष्टा हि दृश्यात्मतया न दृ…
184 बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः । विज्ञानमयकोशः स्यात्पुंसः संसारकारणम् || 184 || ॥
185 अनुव्रजच्चित्प्रतिबिम्बशक्तिः विज्ञानसंज्ञः प्रकृतेर्विकारः । ज्ञानक्रियावानहमित्यजस्रं देहेन्द्रियादिष्वभिमन्यते भृश…
186 अनादिकालोऽयमहंस्वभावो जीवः समस्तव्यवहारवोढा । करोति कर्माण्यपि पूर्ववासनः पुण्यान्यपुण्यानि च तत्फलानि || 186…
187 भुङ्क्ते विचित्रास्वपि योनिषु व्रजन्नायाति निर्यात्यध ऊर्ध्वमेषः । अस्यैव विज्ञानमयस्य जाग्रत् स्वप्नाद्यवस्थाः सुखदुः…
188 देहादिनिष्ठाश्रमधर्मकर्मगुणाभिमानः सततं ममेति । विज्ञानकोशोऽयमतिप्रकाशः प्रकृष्टसान्निध्यवशात्परात्मनः । अतो भव…
189 योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः । स्फुरत्स्वयञ्ज्योतिः कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्…
190 स्वयं परिच्छेदमुपेत्य बुद्धेः तादात्म्यदोषेण परं मृषात्मनः । सर्वात्मकः सन्नपि वीक्षते स्वयं स्वतः पृथक्त्वेन मृदो…
191 उपाधिसम्बन्धवशात्परात्मा ह्युपाधिधर्माननुभाति तद्गुणः । अयोविकारानविकारिवह्निवत् सदैकरूपोऽपि परः स्वभावात् || …
192 शिष्य उवाच भ्रमेणाप्यन्यथा वाऽस्तु जीवभावः परात्मनः । तदुपाधेरनादित्वान्नानादेर्नाश इष्यते || 192 || ॥
193 अतोऽस्य जीवभावोऽपि नित्या भवति संसृतिः । न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद || 193 || ॥
194 श्रीगुरुरुवाच सम्यक्पृष्टं त्वया विद्वन्सावधानेन तच्छृणु । प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना || 194 || ॥
195 भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः । न घटेतार्थसम्बन्धो नभसो नीलतादिवत् || 195 || ॥
196 स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य प्रत्यग्बोधानन्दरूपस्य बुद्धेः । भ्रान्त्या प्राप्तो जीवभावो न सत्यो मोहापाये नास्त्यव…
197 यावद्भ्रान्तिस्तावदेवास्य सत्ता मिथ्याज्ञानोज्जृम्भितस्य प्रमादात् । रज्ज्वां सर्पो भ्रान्तिकालीन एव भ्रान्तेर्नाशे नैव …
198 सर्पोऽस्ति अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते । उत्पन्नायां तु विद्यायामाविद्यकमनाद्यपि || 198 || ॥
199 प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति । अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् || 199 || ॥
200 अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः । यद्बुद्ध्युपाधिसम्बन्धात्परिकल्पितमात्मनि || 200 || ॥
201 जीवत्वं न ततोऽन्यस्तु स्वरूपेण विलक्षणः । ततोऽन्यत्तु सम्बन्धस्त्वात्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः || 201 || ॥
202 सम्बन्धः स्वात्मनो विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा । ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् || 202 …
203 तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति । ततो विवेकः कर्तव्यः प्रत्यगात्मसदात्मनोः || 203 || ॥
204 जलं पङ्कवदत्यन्तं पङ्कापाये जलं स्फुटम् । पङ्कवदस्पष्टं यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः || 204 || ॥
205 असन्निवृत्तौ तु सदात्मना स्फुटं प्रतीतिरेतस्य भवेत्प्रतीचः । ततो निरासः करणीय एव सदात्मनः साध्वहमादिवस्तुनः ||…
206 अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् । विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः । दृश्यत्वाद्व्यभिचारित्वान्नानित्…
207 आनन्दप्रतिबिम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भिता स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः । पुण्यस्यानुभवे विभा…
208 आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा । स्वप्नजागरयोरीषदिष्टसन्दर्शनादिना || 208 || ॥
209 नैवायमानन्दमयः परात्मा सोपाधिकत्वात्प्रकृतेर्विकारात् । कार्यत्वहेतोः सुकृतक्रियाया विकारसङ्घातसमाहितत्वात् || 2…
210 पञ्चानामपि कोशानां निषेधे युक्तितः श्रुतेः । युक्तितः कृते तन्निषेधावधि साक्षी बोधरूपोऽवशिष्यते || 210 || ॥
211 योऽयमात्मा स्वयञ्ज्योतिः पञ्चकोशविलक्षणः । अवस्थात्रयसाक्षी सन्निर्विकारो निरञ्जनः । सदानन्दः स विज्ञेयः स्वात्मत्वे…
212 शिष्य उवाच मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु । सर्वाभावं विना किञ्चिन्न पश्याम्यत्र हे गुरो । विज्ञेयं …
213 श्रीगुरुरुवाच सत्यमुक्तं त्वया विद्वन्निपुणोऽसि विचारणे । अहमादिविकारास्ते तदभावोऽयमप्यनु || 213 || ॥
214 सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते । तमात्मानं वेदितारं विद्धि बुद्ध्या सुसूक्ष्मया || 214 || ॥
215 तत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते । कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते || 215 || ॥
216 असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते । अतः परं स्वयं साक्षात्प्रत्यगात्मा न चेतरः || 216 || ॥
217 जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नैकधा । स्फुरन्नेकधा नानाक…
218 घटोदके बिम्बितमर्कबिम्ब मालोक्य मूढो रविमेव मन्यते । तथा चिदाभासमुपाधिसंस्थं भ्रान्त्याहमित्येव जडोऽभिमन्यते |…
219 घटं जलं तद्गतमर्कबिम्बं विहाय सर्वं विनिरीक्ष्यतेऽर्कः । दिवि वीक्ष्यतेऽर्कः तटस्थ एतत्त्रितयावभासकः स्वयम्प्रकाशो …
220 देहं धियं चित्प्रतिबिम्बमेवं विसृज्य बुद्धौ निहितं गुहायाम् । द्रष्टारमात्मानमखण्डबोधं सर्वप्रकाशं सदसद्विलक्षणम् …
221 नित्यं विभुं सर्वगतं सुसूक्ष्मं अन्तर्बहिःशून्यमनन्यमात्मनः । विज्ञाय सम्यङ्निजरूपमेतत् पुमान् विपाप्मा विरजो विमृ…
222 विशोक आनन्दघनो विपश्चित् स्वयं कुतश्चिन्न बिभेति कश्चित् । नान्योऽस्ति पन्था भवबन्धमुक्तेः विना स्वतत्त्वावगमं मुमु…
223 बब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् । येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधैः || 223 || ॥
224 ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः । विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वमात्मनः || 224 || ॥
225 सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतःसिद्धम् । नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति || 225 || ॥
226 सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् । न ह्यन्यदस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम् || 226 || ॥
227 यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् । तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् || 227 || ॥
228 मृत्कार्यभूतोऽपि मृदो न भिन्नः कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् । न कुम्भरूपं पृथगस्ति कुम्भः कुतो मृषा कल्पि…
229 केनापि मृद्भिन्नतया स्वरूपं घटस्य सन्दर्शयितुं न शक्यते । अतो घटः कल्पित एव मोहान् मृदेव सत्यं परमार्थभूतम् || …
230 सद्ब्रह्मकार्यं सकलं सदेवं तन्मात्रमेतन्न ततोऽन्यदस्ति । सन्मात्रमेतन्नस्तीति यो वक्ति न तस्य मोहो विनिर्गतो निद्रित…
231 ब्रह्मैवेदं विश्वमित्येव वाणी श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा । तस्मादेतद्ब्रह्ममात्रं हि विश्वं नाधिष्ठानाद्भिन्नता…
232 सत्यं यदि स्याज्जगदेतदात्मनोऽ नन्तत्त्वहानिर्निगमाप्रमाणता । असत्यवादित्वमपीशितुः स्याञ् नैतत्त्रयं साधु हितं महात्…
233 ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानि त्येवमेव व्यचीक्लृपत् || 233 || ॥
234 यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् । यन्नोपलभ्यते किञ्चिदतोऽसत्स्वप्नवन्मृषा || 234 || ॥
235 अतः पृथङ्नास्ति जगत्परात्मनः पृथक्प्रतीतिस्तु मृषा गुणादिवत् । गुणाहिवत् आरोपितस्यास्ति किमर्थवत्ताऽधिष्ठानमाभाति…
236 भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं ब्रह्मैव तत्तद्रजतं हि शुक्तिः । इदन्तया ब्रह्म सदैव रूप्यते त्वारोपितं ब्रह्मणि नाममा…
237 अतः परं ब्रह्म सदद्वितीयं विशुद्धविज्ञानघनं निरञ्जनम् । प्रशान्तमाद्यन्तविहीनमक्रियं निरन्तरानन्दरसस्वरूपम् || 237 …
238 निरस्तमायाकृतसर्वभेदं नित्यं सुखं निष्कलमप्रमेयम् । नित्यं ध्रुवं अरूपमव्यक्तमनाख्यमव्ययं ज्योतिः स्वयं किञ्चिदिदं…
239 ज्ञातृज्ञेयज्ञानशून्यमनन्तं निर्विकल्पकम् । केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः || 239 || ॥
240 अहेयमनुपादेयं मनोवाचामगोचरम् । अप्रमेयमनाद्यन्तं ब्रह्म पूर्णमहं महः || 240 || ॥
241 तत्त्वम्पदाभ्यामभिधीयमानयोः ब्रह्मात्मनोः शोधितयोर्यदीत्थम् । श्रुत्या तयोस्तत्त्वमसीति सम्यग् एकत्वमेव प्रतिपाद्यते मु…
242 एक्यं तयोर्लक्षितयोर्न वाच्ययोः निगद्यतेऽन्योन्यविरुद्धधर्मिणोः । खद्योतभान्वोरिव राजभृत्ययोः कूपाम्बुराश्योः परमा…
243 तयोर्विरोधोऽयमुपाधिकल्पितो न वास्तवः कश्चिदुपाधिरेषः । ईशस्य माया महदादिकारणं जीवस्य कार्यं श‍ृणु पञ्चकोशम् …
244 एतावुपाधी परजीवयोस्तयोः सम्यङ्निरासे न परो न जीवः । राज्यं नरेन्द्रस्य भटस्य खेटक् - स्तयोरपोहे न भटो न राजा …
245 अथात आदेश इति श्रुतिः स्वयं निषेधति ब्रह्मणि कल्पितं द्वयम् । श्रुतिप्रमाणानुगृहीतबोधा त्तयोर्निरासः करणीय एव …
246 नेदं नेदं कल्पितत्वान्न सत्यं रज्जुदृष्टव्यालवत्स्वप्नवच्च । रज्जौ इत्थं दृश्यं साधुयुक्त्या व्यपोह्य ज्ञेयः पश्चादेकभा…
247 ततस्तु तौ लक्षणया सुलक्ष्यौ तयोरखण्डैकरसत्वसिद्धये । नालं जहत्या न तथाऽजहत्या किन्तूभयार्थात्मिकयैव भाव्यम् || 24…
248 स देवदत्तोऽयमितीह चैकता विरुद्धधर्मांशमपास्य कथ्यते । यथा तथा तत्त्वमसीतिवाक्ये विरुद्धधर्मानुभयत्र हित्वा || 2…
249 संलक्ष्य चिन्मात्रतया सदात्मनोः अखण्डभावः परिचीयते बुधैः । एवं महावाक्यशतेन कथ्यते ब्रह्मात्मनोरैक्यमखण्डभावः ||…
250 अस्थूलमित्येतदसन्निरस्य सिद्धं स्वतो व्योमवदप्रतर्क्यम् । अतो मृषामात्रमिदं प्रतीतं जहीहि यत्स्वात्मतया गृहीतम् । ब्र…
251 मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् । यस्मान्नास्ति सतः परं…
252 निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः । यस्मादेवमिदं शरीरक…
253 यत्र भ्रान्त्या कल्पितं तद्विवेके तत्तन्मात्रं नैव तस्माद्विभिन्नम् । स्वप्ने नष्टं स्वप्नविश्वं विचित्रं स्वस्माद्भिन्नं क…
254 जातिनीतिकुलगोत्रदूरगं नामरूपगुणदोषवर्जितम् । देशकालविषयातिवर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि || 254 || ॥
255 यत्परं सकलवागगोचरं गोचरं विमलबोधचक्षुषः । शुद्धचिद्घनमनादि वस्तु यद् ब्रह्म तत्त्वमसि भावयात्मनि || 255 || ॥
256 षड्भिरूर्मिभिर्योगि योगिहृद्- भावितं न करणैर्विभावितम् । बुद्ध्यवेद्यमनवद्यमस्ति यद् भूति यद् ब्रह्म तत्त्वमसि भावया…
257 भ्रान्तिकल्पितजगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम् । निष्कलं निरुपमानवद्धि यद् ब्रह्म तत्त्वमसि भावयात्मनि || 257 …
258 जन्मवृद्धिपरिणत्यपक्षय- व्याधिनाशनविहीनमव्ययम् । विश्वसृष्ट्यवविघातकारणं ब्रह्म तत्त्वमसि भावयात्मनि || 258 || ॥
259 अस्तभेदमनपास्तलक्षणं निस्तरङ्गजलराशिनिश्चलम् । नित्यमुक्तमविभक्तमूर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि || 259 || ॥
260 एकमेव सदनेककारणं कारणान्तरनिरास्यकारणम् । सकारणम् कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि || 260 ||…
261 निर्विकल्पकमनल्पमक्षरं यत्क्षराक्षरविलक्षणं परम् । नित्यमव्ययसुखं निरञ्जनं ब्रह्म तत्त्वमसि भावयात्मनि || 261 || ॥
262 यद्विभाति सदनेकधा भ्रमान् नामरूपगुणविक्रियात्मना । हेमवत्स्वयमविक्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि || 262 ||…
263 यच्चकास्त्यनपरं परात्परं प्रत्यगेकरसमात्मलक्षणम् । सत्यचित्सुखमनन्तमव्ययं ब्रह्म तत्त्वमसि भावयात्मनि || 263 || ॥
264 उक्तमर्थमिममात्मनि स्वयं भावयेत्प्रथितयुक्तिभिर्धिया । भावय प्रथित संशयादिरहितं कराम्बुवत् तेन तत्त्वनिगमो भविष्य…
265 सम्बोधमात्रं परिशुद्धतत्त्वं स्वं बोधमात्रं विज्ञाय सङ्घे नृपवच्च सैन्ये । तदाश्रयः स्वात्मनि सर्वदा स्थितो तदात्मनै…
266 बुद्धौ गुहायां सदसद्विलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् । तदात्मना योऽत्र वसेद्गुहायां पुनर्न तस्याङ्गगुहाप्रवे…
267 ज्ञाते वस्तुन्यपि बलवती वासनाऽनादिरेषा कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः । प्रत्यग्दृष्ट्याऽऽत्मनि निव…
268 अहं ममेति यो भावो देहाक्षादावनात्मनि । अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया || 268 || ॥
269 ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् । सोऽहमित्येव सद्वृत्त्याऽनात्मन्यात्ममतिं जहि || 269 || ॥
270 लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु || 270 || ॥
271 लोकवासनया जन्तोः शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते || 271 || ॥
272 संसारकारागृहमोक्षमिच्छो- रयोमयं पादनिबन्धशृङ्खलम् । निबद्ध वदन्ति तज्ज्ञाः पटु वासनात्रयं योऽस्माद्विमुक्तः समुप…
273 जलादिसंपर्कवशात् प्रभूत दुर्गन्धधूताऽगरुदिव्यवासना । सङ्घर्षणेनैव विभाति सम्यग्विधूयमाने सति बाह्यगन्धे || 273 …
274 अन्तःश्रितानन्तदुरन्तवासना- धूलीविलिप्ता परमात्मवासना । प्रज्ञातिसङ्घर्षणतो विशुद्धा प्रतीयते चन्दनगन्धवत् स्फुटम् |…
275 अनात्मवासनाजालैस्तिरोभूतात्मवासना । नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटम् || 275 || ॥
276 यथा यथा प्रत्यगवस्थितं मनः तथा तथा मुञ्चति बाह्यवासनाम् । बाह्यवासनाः निःशेषमोक्षे सति वासनानां आत्मानुभूतिः…
277 स्वात्मन्येव सदा स्थित्वा मनो नश्यति योगिनः । स्थित्या वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु || 277 || ॥
278 तमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति । तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु || 278 || ॥
279 प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः । धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु || 279 || ॥
280 नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् । वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु || 280 || ॥
281 श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः । क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु || 281 || ॥
282 अनादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः । तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु || 282 || ॥
283 तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः । ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु || 283 || ॥
284 अहम्भावस्य देहेऽस्मिन्निःशेषविलयावधि । सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु || 284 || ॥
285 प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता । तावन्निरन्तरं विद्वन्स्वाध्यासापनयं कुरु || 285 || ॥
286 निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः । क्वचिन्नावसरं दत्त्वा चिन्तयात्मानमात्मनि || 286 || ॥
287 मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः । त्यक्त्वा चाण्डालवद्दूरं ब्रह्मीभूय कृती भव || 287 || ॥
288 घटाकाशं महाकाश इवात्मानं परात्मनि । विलाप्याखण्डभावेन तूष्णी भव सदा मुने || 288 || ॥
289 स्वप्रकाशमधिष्ठानं स्वयम्भूय सदात्मना । ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् || 289 || ॥
290 चिदात्मनि सदानन्दे देहारूढामहन्धियम् । निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा || 290 || ॥
291 यत्रैष जगदाभासो दर्पणान्तः पुरं यथा । तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि || 291 || ॥
292 यत्सत्यभूतं निजरूपमाद्यं चिदद्वयानन्दमरूपमक्रियम् । तदेत्य मिथ्यावपुरुत्सृजेत शैलूषवद्वेषमुपात्तमात्मनः || 292 |…
293 सर्वात्मना दृश्यमिदं मृषैव नैवाहमर्थः क्षणिकत्वदर्शनात् । जानाम्यहं सर्वमिति प्रतीतिः कुतोऽहमादेः क्षणिकस्य सिध्य…
294 अहम्पदार्थस्त्वहमादिसाक्षी नित्यं सुषुप्तावपि भावदर्शनात् । ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं तत्प्रत्यगात्मा सदसद्…
295 विकारिणां सर्वविकारवेत्ता नित्याविकारो भवितुं समर्हति । नित्योऽविकारो मनोरथस्वप्नसुषुप्तिषु स्फुटं पुनः पुनर्…
296 अतोऽभिमानं त्यज मांसपिण्डे पिण्डाभिमानिन्यपि बुद्धिकल्पिते । कालत्रयाबाध्यमखण्डबोधं ज्ञात्वा स्वमात्मानमुपैहि शा…
297 त्यजाभिमानं कुलगोत्रनाम- रूपाश्रमेष्वार्द्रशवाश्रितेषु । लिङ्गस्य धर्मानपि कर्तृतादीं- स्यक्त्वा भवाखण्डसुखस्वरूपः …
298 सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः । तेषामेवं मूलं प्रथमविकारो भवत्यहङ्कारः || 298 || ॥
299 यावत्स्यात्स्वस्य सम्बन्धोऽहङ्कारेण दुरात्मना । तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा || 299 || ॥
300 अहङ्कारग्रहान्मुक्तः स्वरूपमुपपद्यते । चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयम्प्रभः || 300 || ॥
301 यो वा पुरैषोऽहमिति प्रतीतो बुद्ध्या प्रक्लृप्तस्तमसाऽतिमूढया । बुद्ध्याऽविविक्तस्तमसा तस्यैव निःशेषतया विनाशे ब्…
302 ब्रह्मानन्दनिधिर्महाबलवताऽहङ्कारघोराहिना संवेष्ट्यात्मनि रक्ष्यते गुणमयैः चण्डैः विज्ञानाख्यमहासिना श्रुतिमता विच्…
303 यावद्वा यत्किञ्चिद्विषदोषस्फूर्तिरस्ति चेद्देहे । कथमारोग्याय भवेत्तद्वदहन्तापि योगिनो मुक्त्यै || 303 || ॥
304 अहोऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या प्रत्यक्तत्त्वविवेकादिदमहमस्मीति विन्दते तत्त्वम् || 304 || ॥
305 अहङ्कर्तर्यस्मिन्नहमिति मतिं मुञ्च सहसा विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि । यदध्यासात्प्राप्ता जनिमृतिजरादु…
306 सदैकरूपस्य चिदात्मनो विभोरानन्दमूर्तेरनवद्यकीर्तेः । नैवान्यथा क्वाप्यविकारिणस्ते विनाहमध्यासममुष्य संसृतिः || …
307 तस्मादहङ्कारमिमं स्वशत्रुं भोक्तुर्गले कण्टकवत्प्रतीतम् । विच्छिद्य विज्ञानमहासिना स्फुटं भुङ्क्ष्वात्मसाम्राज्यसुखं यथ…
308 ततोऽहमादेर्विनिवर्त्य वृत्तिं सन्त्यक्तरागः परमार्थलाभात् । तूष्णीं समास्स्वात्मसुखानुभूत्या पूर्णात्मना ब्रह्मणि निर्…
309 समूलकृत्तोऽपि महानहं पुनः व्युल्लेखितः स्याद्यदि चेतसा क्षणम् । सञ्जीव्य विक्षेपशतं करोति नभस्वता प्रावृषि वारि…
310 निगृह्य शत्रोरहमोऽवकाशः क्वचिन्न देयो विषयानुचिन्तया । स एव सञ्जीवनहेतुरस्य प्रक्षीणजम्बीरतरोरिवाम्बु || 310 |…
311 देहात्मना संस्थित एव कामी विलक्षणः कामयिता कथं स्यात् । अतोऽर्थसन्धानपरत्वमेव भेदप्रसक्त्या भवबन्धहेतुः || 311 …
312 कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते । कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् || 312 || ॥
313 वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना । वर्धते सर्वथा पुंसः संसारो न निवर्तते || 313 || ॥
315 संसारबन्धविच्छित्त्यै तद् द्वयं प्रदहेद्यतिः । वासनावृद्धिरेताभ्यां चिन्तया क्रियया बहिः ताभ्यां प्रवर्धमाना सा सू…
316 सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः मात्रावलोकनम् सद्भाववासनादार्ढ्यात्तत्त्रयं लयमश्नुते || 316 || ॥
317 क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः । वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते || 317 || ॥
318 सद्वासनास्फूर्तिविजृम्भणे सति ह्यसौ विलीनाप्यहमादिवासना । विलीना त्वहमादिवासना अतिप्रकृष्टाप्यरुणप्रभायां विली…
319 तमस्तमःकार्यमनर्थजालं न दृश्यते सत्युदिते दिनेशे । तथाऽद्वयानन्दरसानुभूतौ नैवास्ति बन्धो न च दुःखगन्धः || 319…
320 दृश्यं प्रतीतं प्रविलापयन्स्वयं सन्मात्रमानन्दघनं विभावयन् । समाहितः सन्बहिरन्तरं वा कालं नयेथाः सति कर्मबन्धे |…
321 प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन । प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः || 321 || ॥
322 न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः । ततो मोहस्ततोऽहन्धीस्ततो बन्धस्ततो व्यथा || 322 || ॥
323 विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः । विक्षेपयति धीदोषैर्योषा जारमिव प्रियम् || 323 || ॥
324 यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति । आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् || 324 || ॥
325 लक्ष्यच्युतं चेद्यदि चित्तमीषद् बहिर्मुखं सन्निपतेत्ततस्ततः । प्रमादतः प्रच्युतकेलिकन्दुकः सोपानपङ्क्तौ पतितो यथा त…
326 विषयेष्वाविशच्चेतः सङ्कल्पयति तद्गुणान् । सम्यक्सङ्कल्पनात्कामः कामात्पुंसः प्रवर्तनम् || 326 || ॥
327 अतः प्रमादान्न परोऽस्ति मृत्युः विवेकिनो ब्रह्मविदः समाधौ । समाहितः सिद्धिमुपैति सम्यक् समाहितात्मा भव सावधान…
328 ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः । पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते || 328 || ॥
329 सङ्कल्पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् । अपथ्यानि हि वस्तूनि व्याधिग्रस्तो यथोत्सृजे । जीवतो यस्य कैवल्यं विदेहे…
330 यदा कदा वापि विपश्चिदेष ब्रह्मण्यनन्तेऽप्यणुमात्रभेदम् । पश्यत्यथामुष्य भयं तदैव यदीक्षितं भिन्नतया प्रमादात् || 3…
331 श्रुतिस्मृतिन्यायशतैर्निषिद्धे दृश्येऽत्र यः स्वात्ममतिं करोति । उपैति दुःखोपरि दुःखजातं निषिद्धकर्ता स मलिम्लु…
332 सत्याभिसन्धानरतो विमुक्तो महत्त्वमात्मीयमुपैति नित्यम् । मिथ्याभिसन्धानरतस्तु नश्येद् दृष्टं तदेतद्यदचौरचोरयोः || …
333 यतिरसदनुसन्धिं बन्धहेतुं विहाय स्वयमयमहमस्मीत्यात्मदृष्ट्यैव तिष्ठेत सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या हरति…
334 बाह्याभिसन्धिः दुर्वासनामेव ततस्ततोऽधिकाम् । ज्ञात्वा विवेकैः परिहृत्य बाह्यं स्वात्मानुसन्धिं विदधीत नित्यम् || …
335 बाह्ये निरुद्धे मनसः प्रसन्नता मनःप्रसादे परमात्मदर्शनम् । तस्मिन्सुदृष्टे भवबन्धनाशो बहिर्निरोधः पदवी विमुक्तेः …
336 कः पण्डितः सन्सदसद्विवेकी श्रुतिप्रमाणः परमार्थदर्शी । जानन्हि कुर्यादसतोऽवलम्बं स्वपातहेतोः शिशुवन्मुमुक्षुः ||…
337 देहादिसंसक्तिमतो न मुक्तिः मुक्तस्य देहाद्यभिमत्यभावः । सुप्तस्य नो जागरणं न जाग्रतः स्वप्नस्तयोर्भिन्नगुणाश्रयत्वा…
338 अन्तर्बहिः स्वं स्थिरजङ्गमेषु ज्ञात्वाऽऽत्मनाधारतया विलोक्य । ज्ञानात्मन् त्यक्ताखिलोपाधिरखण्डरूपः पूर्णात्मना यः स्थ…
339 सर्वात्मना बन्धविमुक्तिहेतुः सर्वात्मभावान्न परोऽस्ति कश्चित् । दृश्याग्रहे सत्युपपद्यतेऽसौ सर्वात्मभावोऽस्य सदात्मनि…
340 दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः । सन्न्यस्ताखिलधर्मकर्मव…
341 सर्वात्मसिद्धये भिक्षोः कृतश्रवणकर्मणः सार्वात्म्य समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः || 341 || ॥
342 आरूढशक्तेरहमो विनाशः कर्तुन्न शक्य सहसापि पण्डितैः । कर्तुं न ये निर्विकल्पाख्यसमाधिनिश्चलाः तानन्तराऽनन्तभवा ह…
343 अहम्बुद्ध्यैव मोहिन्या योजयित्वाऽऽवृतेर्बलात् विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः || 343 || ॥
344 विक्षेपशक्तिविजयो विषमो विधातुं निःशेषमावरणशक्तिनिवृत्त्यभावे । दृग्दृश्ययोः स्फुटपयोजलवद्विभागे नश्येत्तदावरण…
345 सम्यग्विवेकः स्फुटबोधजन्यो विभज्य दृग्दृश्यपदार्थतत्त्वम् । छिनत्ति मायाकृतमोहबन्धं यस्माद्विमुक्तस्तु पुनर्न संसृतिः…
346 परावरैकत्वविवेकवह्निः दहत्यविद्यागहनं ह्यशेषम् । किं स्यात्पुनः संसरणस्य बीजं अद्वैतभावं समुपेयुषोऽस्य || 346 …
347 आवरणस्य निवृत्तिर्भवति हि सम्यक्पदार्थदर्शनतः । मिथ्याज्ञानविनाशस्तद्विक्षेपजनितदुःखनिवृत्तिः || 347 || ॥
348 एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् । तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा || 348 || ॥
349 अयोऽग्नियोगादिव सत्समन्वयान् मात्रादिरूपेण विजृम्भते धीः । तत्कार्यमेव त्रितयं दृष्टं भ्रमस्वप्नमनोरथेषु || 349 …
350 ततो विकाराः प्रकृतेरहम्मुखा देहावसाना विषयाश्च सर्वे । क्षणेऽन्यथाभावितया ह्यमीषाभाविन एष आत्मा मसत्त्वमात्मा …
351 मसत्त्वमात्मा तु कदापि नित्याद्वयाखण्डचिदेकरूपो बुद्ध्यादिसाक्षी सदसद्विलक्षणः । अहम्पदप्रत्ययलक्षितार्थः प्रत्यक् सदा…
352 इत्थं विपश्चित्सदसद्विभज्य निश्चित्य तत्त्वं निजबोधदृष्ट्या । ज्ञात्वा स्वमात्मानमखण्डबोधं तेभ्यो विमुक्तः स्वयमेव शाम्…
353 अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा । समाधिनाऽविकल्पेन यदाऽद्वैतात्मदर्शनम् || 353 || ॥
354 त्वमहमिदमितीयं कल्पना बुद्धिदोषात् प्रभवति परमात्मन्यद्वये निर्विशेषे । प्रविलसति समाधावस्य सर्वो विकल्पो विलयनम…
355 शान्तो दान्तः परमुपरतः क्षान्तियुक्तः समाधिं कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् । तेनाविद्यातिमिरजनिता…
356 समाहिता ये प्रविलाप्य बाह्यं श्रोत्रादि चेतः स्वमहं चिदात्मनि । त एव मुक्ता भवपाशबन्धैः नान्ये तु पारोक्ष्यकथाभ…
357 योगात्स्वयमेव चोपाध्यपोहे स्वयमेव केवलः । तस्मादुपाधेर्विलयाय विद्वान् वसेत्सदाऽकल्पसमाधिनिष्ठया || 357 || ॥
358 सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया । कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते || 358 || ॥
359 क्रियान्तरासक्तिमपास्य कीटको ध्यायन्नलित्वं ह्यलिभावमृच्छति । ध्यायन्यथालिं तथैव योगी परमात्मतत्त्वं ध्यात्वा समाया…
360 अतीव सूक्ष्मं परमात्मतत्त्वं न स्थूलदृष्ट्या प्रतिपत्तुमर्हति । समाधिनात्यन्तसुसूक्ष्मवृत्त्या ज्ञातव्यमार्यैरतिशुद्धबुद्…
361 यथा सुवर्णं पुटपाकशोधितं त्यक्त्वा मलं स्वात्मगुणं समृच्छति । तथा मनः सत्त्वरजस्तमोमलं ध्यानेन सन्त्यज्य समेति तत्…
362 निरन्तराभ्यासवशात्तदित्थं पक्वं मनो ब्रह्मणि लीयते यदा । तदा समाधिः स विकल्पवर्जितः स्वतोऽद्वयानन्दरसानुभावकः |…
363 समाधिनाऽनेन समस्तवासना- ग्रन्थेर्विनाशोऽखिलकर्मनाशः । अन्तर्बहिः सर्वत एव सर्वदा स्वरूपविस्फूर्तिरयत्नतः स्यात् ||…
364 श्रुतेः शतगुणं विद्यान्मननं मननादपि । निदिध्यासं लक्षगुणमनन्तं निर्विकल्पकम् || 364 || ॥
365 निर्विकल्पकसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत् || 365 …
366 अतः समाधत्स्व यतेन्द्रियः सन् निरन्तरं शान्तमनाः प्रतीचि । विध्वंसय ध्वान्तमनाद्यविद्यया कृतं सदेकत्वविलोकनेन || …
367 योगस्य प्रथमद्वारं वाङ्निरोधोऽपरिग्रहः । प्रथमं द्वारं निराशा च निरीहा च नित्यमेकान्तशीलता || 367 || ॥
368 एकान्तस्थितिरिन्द्रियोपरमणे हेतुर्दमश्चेतसः संरोधे करणं शमेन विलयं यायादहंवासना । तेनानन्दरसानुभूतिरचला ब्र…
369 वाचं नियच्छात्मनि तं नियच्छ बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि । तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शान्तिं …
370 देहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः यैर्यैर्वृत्तेःसमायोगस्तत्तद्भावोऽस्य योगिनः || 370 || ॥
371 तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् । सन्दृश्यते सदानन्दरसानुभवविप्लवः || 371 || ॥
372 अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते । त्यजत्यन्तर्बहिःसङ्गं विरक्तस्तु मुमुक्षया || 372 || ॥
373 बहिस्तु विषयैः सङ्गं तथान्तरहमादिभिः । सङ्गः विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः || 373 || ॥
374 वैराग्यबोधौ पुरुषस्य पक्षिवत् पक्षौ विजानीहि विचक्षण त्वम् । विमुक्तिसौधाग्रलताधिरोहणं ताभ्यां विना नान्यतरेण स…
375 अत्यन्तवैराग्यवतः समाधिः समाहितस्यैव दृढप्रबोधः । प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः मुक्तात्मनो नित्यसुखानुभूतिः ||…
376 वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् । एतद्द्वारमजस्रमुक्त…
377 आशां छिन्द्धि विषोपमेषु विषयेष्वेषैव मृत्योः सृति त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात्क्रियाः । देहा…
378 लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् । ब्रह्मात्म…
379 अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् । चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् || 379 || ॥
380 एष स्वयञ्ज्योतिरशेषसाक्षी विज्ञानकोशो विलसत्यजस्रम् । विज्ञानकोशे लक्ष्यं विधाय इनमसद्विलक्षणमखण्डवृत्त्याऽऽत्मतयाऽन…
381 एतमच्छिन्नया वृत्त्या प्रत्ययान्तरशून्यया । उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम् || 381 || ॥
382 अत्रात्मत्वं दृढीकुर्वन्नहमादिषु सन्त्यजन् । उदासीनतया तेषु तिष्ठेत्स्फुटघटादिवत् || 382 || ॥
383 विशुद्धमन्तःकरणं स्वरूपे निवेश्य साक्षिण्यबोधमात्रे । शनैः शनैर्निश्चलतामुपानयन् पूर्णं स्वमेवानुविलोकयेत्ततः ||…
384 देहेन्द्रियप्राणमनोऽहमादिभिः स्वाज्ञानक्लृप्तैरखिलैरुपाधिभिः । विमुक्तमात्मानमखण्डरूपं पूर्णं महाकाशमिवावलोकये…
385 घटकलशकुसूलसूचिमुख्यैः गगनमुपाधिशतैर्विमुक्तमेकम् । भवति न विविधं तथैव शुद्धं परमहमादिविमुक्तमेकमेव || 385…
386 ब्रह्मादिस्तम्बपर्यन्ता मृषामात्रा उपाधयः । ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् || 386 || ॥
387 यत्र भ्रान्त्या कल्पितं तद्विवेके तत्तन्मात्रं नैव तस्माद्विभिन्नम् । भ्रान्तिदृष्टारज्जुस्तद्वद्विश्वमात्मस्वरूपम् || 387 …
388 स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः । स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किञ्चन || 388 || ॥
389 अन्तः स्वयं चापि बहिः स्वयं च स्वयं पुरस्तात् स्वयमेव पश्चात् । स्वयं ह्यावाच्यां स्वयमप्युदीच्यां ह्यवाच्यां तथोपरि…
390 तरङ्गफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण जलं यथा तथा । चिदेव देहाद्यहमन्तमेतत् सर्वं चिदेवैकरसं विशुद्धम् || 390 …
391 सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः । पृथक् किं मृत्स्नायाः कलशघटकुम्भा…
392 क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः । ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये || 392 || ॥
393 आकाशवन्निर्मलनिर्विकल्पं निर्विकल्प निःसीमनिःस्पन्दननिर्विकारम् । अन्तर्बहिःशून्यमनन्यमद्वयं स्वयं परं ब्रह्म किमस्ति …
394 वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः । जगदापराणु…
395 आनन्दात्मनैव ध्रुवम् जहि मलमयकोशेऽहन्धियोत्थापिताशां प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् । निगमगदितकीर्तिं नित्य…
389 अन्तः स्वयं चापि बहिः स्वयं च स्वयं पुरस्तात् स्वयमेव पश्चात् । स्वयं ह्यावाच्यां स्वयमप्युदीच्यां ह्यवाच्यां तथोपरि…
390 तरङ्गफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण जलं यथा तथा । चिदेव देहाद्यहमन्तमेतत् सर्वं चिदेवैकरसं विशुद्धम् || 390 …
391 सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः । पृथक् किं मृत्स्नायाः कलशघटकुम्भा…
392 क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः । ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये || 392 || ॥
393 आकाशवन्निर्मलनिर्विकल्पं निर्विकल्प निःसीमनिःस्पन्दननिर्विकारम् । अन्तर्बहिःशून्यमनन्यमद्वयं स्वयं परं ब्रह्म किमस्ति …
394 वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः । जगदापराणु…
395 आनन्दात्मनैव ध्रुवम् जहि मलमयकोशेऽहन्धियोत्थापिताशां प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् । निगमगदितकीर्तिं नित्य…
396 शवाकारं यावद्भजति मनुजस्तावदशुचिः परेभ्यः स्यात्क्लेशो जननमरणव्याधिनिलयः । व्याधिनिरयाः यदात्मानं शुद्धं कलयत…
397 स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः । स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् || 397 || ॥
398 समाहितायां सति चित्तवृत्तौ परात्मनि ब्रह्मणि निर्विकल्पे । न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते यत…
399 ततः असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः || 399 || ॥
400 द्रष्टुदर्शनदृश्यादिभावशून्यैकवस्तुनि । द्रष्टृदर्शन निर्विकारे निराकारे निर्विशेषे भिदा कुतः || 400 || ॥
401 कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः || 401 || ॥
402 तेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम् । यत्र विलीनं अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः || 402 || ॥
403 एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत् । कथं भवेत् सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः || 403 || ॥
404 न ह्यस्ति विश्वं परतत्त्वबोधात् सदात्मनि ब्रह्मणि निर्विकल्पे । कालत्रये नाप्यहिरीक्षितो गुणे न ह्यम्बुबिन्दुर्मृगतृष्…
405 मायामात्रमिदं द्वैतमद्वैतं परमार्थतः । इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते || 405 || ॥
406 अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् । पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः || 406 || ॥
407 चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन । अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि || 407 || ॥
408 किमपि सततबोधं केवलानन्दरूपं निरुपममतिवेलं नित्यमुक्तं निरीहम् । निरवधिगगनाभं निष्कलं निर्विकल्पं हृदि कलयत…
409 प्रकृतिविकृतिशून्यं भावनातीतभावं समरसमसमानं मानसम्बन्धदूरम् । निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं हृदि कलयति वि…
410 अजरममरमस्ताभाववस्तुस्वरूपं भासवस्तु स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् । शमितगुणविकारं शाश्वतं शान्तमेकं हृदि …
411 समाहितान्तःकरणः स्वरूपे विलोकयात्मानमखण्डवैभवम् । विच्छिन्द्धि बन्धं भवगन्धगन्धितं गन्धगन्धिलं यत्नेन पुंस्त्वं सफल…
412 सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् । भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने || 412 || ॥
413 छायेव पुंसः परिदृश्यमान- माभासरूपेण फलानुभूत्या । शरीरमाराच्छववन्निरस्तं पुनर्न सन्धत्त इदं महात्मा || 413 |…
414 सततविमलबोधानन्दरूपं समेत्य स्वमेत्य त्यज जडमलरूपोपाधिमेतं सुदूरे । अथ पुनरपि नैष स्मर्यतां वान्तवस्तु नैव स्म…
415 समूलमेतत्परिदाह्य वह्नौ सदात्मनि ब्रह्मणि निर्विकल्पे । ततः स्वयं नित्यविशुद्धबोधा नन्दात्मना तिष्ठति विद्वरिष्ठः |…
416 प्रारब्धसूत्रग्रथितं शरीरं प्रयातु वा तिष्ठतु गोरिव स्रक् । न तत्पुनः पश्यति तत्त्ववेत्ता ऽऽनन्दात्मनि ब्रह्मणि लीनव…
417 अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः । किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित् || 417 || ॥
418 संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः । बहिरन्तः सदानन्दरसास्वादनमात्मनि || 418 || ॥
419 वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् । स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् || 419 || ॥
420 यद्युत्तरोत्तराभावः पूर्वपूर्वन्तु निष्फलम् । निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः || 420 || ॥
421 दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् । यत्कृतं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम् । पश्चान्नरो विवेके…
422 विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तदीक्षितम् । तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ नोचेद्विदां दृष्टफलं कि…
423 नोचेद्विदो अज्ञानहृदयग्रन्थेर्विनाशो यद्यशेषतः । अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः || 423 || ॥
424 विदुषः किं वासनानुदयो भोग्ये वैराग्यस्य तदावधिः । अहम्भावोदयाभावो बोधस्य परमावधिः । लीनवृत्तैरनुत्पत्तिर्मर्य…
425 ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधी- रन्यावेदितभोग्यभोगकलनो निद्रालुवद्बालवत् । स्वप्नालोकितलोकवज्जगदि…
426 स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते । ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः || 426 || ॥
427 ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी । निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते । सुस्थिताऽसौ भवेद्यस्य स्…
428 यस्य स्थिता भवेत्प्रज्ञा यस्यानन्दो निरन्तरः । प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते || 428 || ॥
429 लीनधीरपि जागर्ति जाग्रद्धर्मविवर्जितः । बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते || 429 || ॥
430 शान्तसंसारकलनः कलावानपि निष्कलः । यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इष्यते || 430 || ॥
431 यः सचित्तोऽपि निश्चित्तः वर्तमानेऽपि देहेऽस्मिञ्छायावदनुवर्तिनि । अहन्ताममताऽभावो जीवन्मुक्तस्य लक्षणम् || 431 |…
432 अतीताननुसन्धानं भविष्यदविचारणम् । औदासीन्यमपि प्राप्तं जीवन्मुक्तस्य लक्षणम् || 432 || ॥
433 प्राप्ते गुणदोषविशिष्टेऽस्मिन्स्वभावेन विलक्षणे । सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् || 433 || ॥
434 इष्टानिष्टार्थसम्प्राप्तौ समदर्शितयाऽऽत्मनि । उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् || 434 || ॥
435 ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः । अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् || 435 || ॥
436 देहेन्द्रियादौ कर्तव्ये ममाहम्भाववर्जितः । औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्तलक्षणः || 436 || ॥
437 स जीवन्मुक्त इष्यते, विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् । भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्षणः || 437 || ॥
438 स जीवन्मुक्त इष्यते, देहेन्द्रियेष्वहम्भाव इदम्भावस्तदन्यके । यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते || 438 || ॥
439 जीवेशोभयसंसाररूपदुर्वासनोज्झिता । सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥ न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मस…
440 स जीवन्मुक्त इष्यते, साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः । समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः || 440 …
441 यत्र प्रविष्टा विषयाः परेरिता नदीप्रवाहा इव वारिराशौ । लिनन्ति सन्मात्रतया न विक्रियां उत्पादयन्त्येष यतिर्विमु…
442 विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः । अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः || 442 || ॥
443 प्राचीनवासनावेगादसौ संसरतीति चेत् । न सदेकत्वविज्ञानान्मन्दी भवति वासना || 443 || ॥
444 अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि । तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः || 444 || ॥
445 निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते । ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् || 445 || ॥
446 सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते । फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् || 446 || ॥
447 अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् । सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत् || 447 || ॥
448 यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् । सुप्तोत्थितस्य किं तत्स्यात्स्वर्गाय नरकाय वा || 448 || ॥
449 स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा । न श्लिष्यति च यत्किञ्चित्कदाचिद्भाविकर्मभिः || 449 || ॥
450 न नभो घटयोगेन सुरागन्धेन लिप्यते । तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते || 450 || ॥
451 जञानोदयात्पुरारब्धं कर्मज्ञानान्न नश्यति । अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् || 451 || ॥
452 व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ । न तिष्ठति छिनत्येव लक्ष्यं वेगेन निर्भरम् || 452 || ॥
453 प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः सम्यग्ज्ञानहुताशनेन विलयः प्राक्सञ्चितागामिनाम् । ब्रह्मात्मैक्यमवेक्ष्…
454 उपाधितादात्म्यविहीनकेवल ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः । प्रारब्धसद्भावकथा न युक्ता स्वप्नार्थसम्बन्धकथेव जाग्रतः…
455 न हि प्रबुद्धः प्रतिभासदेहे देहोपयोगिन्यपि च प्रपञ्चे । करोत्यहन्तां ममतामिदन्तां किन्तु स्वयं तिष्ठति जागरेण |…
456 न तस्य मिथ्यार्थसमर्थनेच्छा न सङ्ग्रहस्तज्जगतोऽपि दृष्टः । तत्रानुवृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इतीष्यते ध्…
457 तद्वत्परे ब्रह्मणि वर्तमानः सदात्मना तिष्ठति नान्यदीक्षते । स्मृतिर्यथा स्वप्नविलोकितार्थे तथा विदः प्राशनमोचनादौ …
458 कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् । नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः || 458 || ॥
459 अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोघवाक् । तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना || 459 || ॥
460 प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः । देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः || 460 || ॥
461 शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि । अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः । सत्त्वमसत्त्वस्य अजातस्य कुतो ना…
462 ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि । तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् || 462 || ॥
463 समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः । न तु देहादिसत्यत्वबोधनाय विपश्चिताम् । यतः श्रुतेरभिप्रायः परमा…
464 परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || 464 || ॥
465 सद्घनं चिद्घनं नित्यमानन्दघनमक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || 465 || ॥
466 प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || 466 || ॥
467 अहेयमनुपादेयमनादेयमनाश्रयम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || 467 || ॥
468 निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || 468 || ॥
469 अनिरूप्य स्वरूपं यन्मनोवाचामगोचरम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || 469 || ॥
470 सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || 470 || ॥
471 निरस्तरागा विनिरस्तभोगाः शान्ताः सुदान्ता यतयो महान्तः । विज्ञाय तत्त्वं परमेतदन्ते प्राप्ताः परां निर्वृतिमात्म…
472 भवानपीदं परतत्त्वमात्मनः स्वरूपमानन्दघनं विचार्य । विधूय मोहं स्वमनःप्रकल्पितं मुक्तः कृतार्थो भवतु प्रबुद्धः ||…
473 समाधिना साधुविनिश्चलात्मना पश्यात्मतत्त्वं स्फुटबोधचक्षुषा । निःसंशयं सम्यगवेक्षितश्चे- छ्रुतः पदार्थो न पुनर्विक…
474 स्वस्याविद्याबन्धसम्बन्धमोक्षा- त्सत्यज्ञानानन्दरूपात्मलब्धौ । शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं चान्तःसिद्धा स्वानुभू…
475 बन्धो मोक्षश्च तृप्तिश्च चिन्ताऽऽरोग्यक्षुधादयः । स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् || 475 || ॥
476 तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा । प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया || 476 || ॥
477 स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् । संसिद्धः सम्मुखं तिष्ठेन्निर्विकल्पात्मनाऽऽत्मनि || 477 || ॥
478 सुसुखं तिष्ठेन्न वेदान्तसिद्धान्तनिरुक्तिरेषा ब्रह्मैव जीवः सकलं जगच्च । अखण्डरूपस्थितिरेव मोक्षो ब्रह्माद्वितीये …
479 इति गुरुवचनाच्छ्रुतिप्रमाणात् परमवगम्य सतत्त्वमात्मयुक्त्या । प्रशमितकरणः समाहितात्मा क्वचिदचलाकृतिरात्मनिष्ठतोऽभू…
480 किञ्चित्कालं समाधाय परे ब्रह्मणि मानसम् । उत्थाय परमानन्दादिदं वचनमब्रवीत् || 480 || ॥
481 बुद्धिर्विनष्टा, गलिता प्रवृत्तिः ब्रह्मात्मनोरेकतयाऽधिगत्या । इदं न जानेऽप्यनिदं न जाने किं वा कियद्वा सुखमस्त्…
482 वाचा वक्तुमशक्यमेव मनसा मन्तुं न वा शक्यते स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् । अम्भोराशिविशीर्णवार्षिकश…
483 क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् । अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् || 483 || ॥
484 किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् । अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे || 484 || ॥
485 न किञ्चिदत्र पश्यामि न शृणोमि न वेद्म्यहम् । स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः || 485 || ॥
486 नमो नमस्ते गुरवे महात्मने विमुक्तसङ्गाय सदुत्तमाय । नित्याद्वयानन्दरसस्वरूपिणे भूम्ने सदाऽपारदयाम्बुधाम्ने || 4…
487 यत्कटाक्षशशिसान्द्रचन्द्रिका- पातधूतभवतापजश्रमः । प्राप्तवानहमखण्डवैभवा - नन्दमात्मपदमक्षयं क्षणात् || 487 || ॥
488 धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् । नित्यानन्दस्वरूपोऽहं पूर्णोऽहं त्वदनुग्रहात् || 488 || ॥
489 असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहमभङ्गुरः । प्रशान्तोऽहमनन्तोऽहममलोऽहं चिरन्तनः || 489 || ॥
490 अकर्ताहमभोक्ताहमविकारोऽहमक्रियः । शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः || 490 || ॥
491 द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् । नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा || 491 || ॥
492 नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् । बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् || 492 || ॥
493 निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् । नित्यानंदैक रसं सत्यं ब्रह्माद्वितीयमेवाहम् || 493 || ॥
494 नारायणोऽहं नरकान्तकोऽहं पुरान्तकोऽहं पुरुषोऽहमीशः । अखण्डबोधोऽहमशेषसाक्षी निरीश्वरोऽहं निरहं च निर्ममः ||…
495 सर्वेषु भूतेष्वहमेव संस्थितो ज्ञानात्मनाऽन्तर्बहिराश्रयः सन् । भोक्ता च भोग्यं स्वयमेव सर्वं यद्यत्पृथग्दृष्टमिदन्तया…
496 मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् || 496 || ॥
497 स्थुलादिभावा मयि कल्पिता भ्रमा- दारोपितानुस्फुरणेन लोकैः । काले यथा कल्पकवत्सराय- णर्त्वादयो निष्कलनिर्विकल्पे…
498 आरोपितं नाश्रयदूषकं भवेत् कदापि मूढैरतिदोषदूषितैः । नार्द्रीकरोत्यूषरभूमिभागं मरीचिकावारि महाप्रवाहः || 4…
499 आकाशवल्लेपविदूरगोऽहं आदित्यवद्भास्यविलक्षणोऽहम् । अहार्यवन्नित्यविनिश्चलोऽहं अम्भोधिवत्पारविवर्जितोऽहम् || 499 ||…
500 न मे देहेन सम्बन्धो मेघेनेव विहायसः । अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तयः || 500 || ॥
501 उपाधिरायाति स एव गच्छति स एव कर्माणि करोति भुङ्क्ते स एव जीर्यन् म्रियते सदाहं एव जीवन् कुलाद्रिवन्निश्चल एव स…
502 न मे प्रवृत्तिः न च मे निवृत्तिः सदैकरूपस्य निरंशकस्य एकात्मको यो निविडो निरन्तरः व्योमेव पूर्णः स कथं नु चे…
503 पुण्यानि पापानि निरिन्द्रियस्य निश्चेतसो निर्विकृतेर्निराकृतेः कुतो ममाखण्डसुखानुभूतेः ब्रूते ह्यनन्वागतमित्यपि…
504 छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुःष्ठु वा न स्पृशत्येव यत्किञ्चित्पुरुषं तद्विलक्षणम् || 504 || ॥
505 न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् अविकारमुदासीनं गृहधर्माः प्रदीपवत् देहेन्द्रियमनोधर्मा नैवात्मानं स्…
506 रवेर्यथा कर्मणि साक्षिभावो वह्नेर्यथा दाहनियामकत्वम् वाऽयसि दाहकत्वम् रज्जोर्यथाऽऽरोपितवस्तुसङ्गः तथैव कूटस्थचिदा…
507 कर्तापि वा कारयितापि नाहं भोक्तापि वा भोजयितापि नाहम् द्रष्टापि वा दर्शयितापि नाहं सोऽहं स्वयञ्ज्योतिरनीदृगा…
508 चलत्युपाधौ प्रतिबिम्बलौल्य मौपाधिकं मूढधियो नयन्ति स्वबिम्बभूतं रविवद्विनिष्क्रियं कर्तास्मि भोक्तास्मि हतोऽस्मि ह…
509 जले वापि स्थले वापि लुठत्वेष जडात्मकः नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा || 509 || ॥
510 कर्तृत्वभोक्तृत्वखलत्वमत्तता जडत्वबद्धत्वविमुक्ततादयः बुद्धेर्विकल्पा न तु सन्ति वस्तुतः स्वस्मिन्परे ब्रह्मणि केवलेऽद्व…
511 सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि किं मेऽसङ्गचितस्तैर्न घनः क्वचिदम्बरं स्पृशति || 511 || ॥
512 ह्यम्बुदडम्बरोऽम्बरं अव्यक्तादिस्थूलपर्यन्तमेतत् विश्वं यत्राभासमात्रं प्रतीतम् व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं ब्रह्माद्वै…
513 सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगं सर्वशून्यम् नित्यं शुद्धं निश्चलं निर्विकल्पं निष्कलं ब्रह्माद्वैतं यत्तदे…
514 यत्प्रत्यस्ताशेषमायाविशेषं प्रत्यग्रूपं प्रत्ययागम्यमानम् सत्यज्ञानानन्तमानन्दरूपं ब्रह्माद्वैतं यत्तदेवाहमस्मि || 514 …
515 निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः निर्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः || 515 || ॥
516 सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः केवलाखण्डबोधोऽहमानन्दोऽहं निरन्तरः || 516 || ॥
517 स्वाराज्यसाम्राज्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात् प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्त…
518 महास्वप्ने मायाकृतजनिजरामृत्युगहने भ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुदिनम् अहङ्कारव्याघ्रव्यथितमिममत्यन्तकृपया प्रब…
519 नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः सदेकस्मै नमश्चिन्महसे मुहुः यदेतद्विश्वरूपेण राजते गुरुराज ते || 519 || ॥
520 इति नतमवलोक्य शिष्यवर्यं समधिगतात्मसुखं प्रबुद्धतत्त्वम् प्रमुदितहृदयं स देशिकेन्द्रः हृदयः पुनरिदमाह वचः परं म…
521 ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः सत्सर्वतः पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि रूपादन्यदवेक्षितं…
522 कस्तां परानन्दरसानुभूति मृत्सृज्य शून्येषु रमेत विद्वान् मुत्सृज्य चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयि…
523 असत्पदार्थानुभवेन किञ्चिन् न ह्यस्ति तृप्तिर्न च दुःखहानिः तदद्वयानन्दरसानुभूत्या तृप्तः सुखं तिष्ठ सदात्मनिष्ठया …
524 स्वमेव सर्वथा पश्यन्मन्यमानः स्वमद्वयम् सर्वतः स्वानन्दमनुभुञ्जानः कालं नय महामते || 524 || ॥
525 अखण्डबोधात्मनि निर्विकल्पे विकल्पनं व्योम्नि पुरप्रकल्पनम् तदद्वयानन्दमयात्मना सदा शान्तिं परामेत्य भजस्व मौनम् || 5…
526 तूष्णीमवस्था परमोपशान्तिः बुद्धेरसत्कल्पविकल्पहेतोः ब्रह्मात्मनो ब्रह्मविदो महात्मनो यत्राद्वयानन्दसुखं निरन्तरम् || …
527 नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः || 527 || ॥
528 गच्छंस्तिष्ठन्नुपविशञ्छयानो वाऽन्यथापि वा यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः || 528 || ॥
529 न देशकालासनदिग्यमादि लक्ष्याद्यपेक्षाऽप्रतिबद्धवृत्तेः प्रतिबद्ध संसिद्धतत्त्वस्य महात्मनोऽस्ति स्ववेदने का नियमाद्यव…
530 घटोऽयमिति विज्ञातुं नियमः कोऽन्ववेक्षते अपेक्ष्यते विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः || 530 || ॥
531 अयमात्मा नित्यसिद्धः प्रमाणे सति भासते न देशं नापि वा कालं न शुद्धिं वाप्यपेक्षते || 531 || ॥
532 देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् || 532 || ॥
533 भानुनेव जगत्सर्वं भासते यस्य तेजसा अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् || 533 || ॥
534 वेदशास्त्रपुराणानि भूतानि सकलान्यपि येनार्थवन्ति तं किन्नु विज्ञातारं प्रकाशयेत् || 534 || ॥
535 एष स्वयञ्ज्योतिरनन्तशक्तिः आत्माऽप्रमेयः सकलानुभूतिः यमेव विज्ञाय विमुक्तबन्धो जयत्ययं ब्रह्मविदुत्तमोत्तमः || 535…
536 न खिद्यते नो विषयैः प्रमोदते न सज्जते नापि विरज्यते च स्वस्मिन्सदा क्रीडति नन्दति स्वयं निरन्तरानन्दरसेन तृप्तः …
537 क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः तथैव विद्वान् रमते निर्ममो निरहं सुखी || 537 || ॥
538 चिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु स्वातन्त्र्येण निरङ्कुशा स्थितिरभीर्निद्रा श्मशाने वने वस्त्रं क्षालनशोष…
539 विमानमालम्ब्य शरीरमेतद् भुनक्त्यशेषान्विषयानुपस्थितान् परेच्छया बालवदात्मवेत्ता योऽव्यक्तलिङ्गोऽननुषक्तबाह्यः || 53…
540 दिगम्बरो वापि च साम्बरो वा त्वगम्बरो वापि चिदम्बरस्थः उन्मत्तवद्वापि च बालवद्वा पिशाचवद्वापि चरत्यवन्याम् || 540 …
541 कामान्निष्कामरूपी संश्चरत्येकचरो मुनिः कामान्नी कामरूपी स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः || 541 ||…
542 क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः क्वचित्पात्रीभूतः क्वचिदवमतः क्…
543 निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः || 543 || ॥
544 अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः || 544 || ॥
545 अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे || 545 || ॥
546 स्थूलादिसम्बन्धवतोऽभिमानिनः सुखं च दुःखं च शुभाशुभे च विध्वस्तबन्धस्य सदात्मनो मुनेः कुतः शुभं वाऽप्यशुभं फल…
547 तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः ग्रस्त इत्युच्यते भ्रान्त्यां ह्यज्ञात्वा वस्तुलक्षणम् || 547 || ॥
548 तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् || 548 || ॥
550 अहिर्निर्ल्वयनीं वायं मुक्त्वा देहं तु तिष्ठति इतस्ततश्चाल्यमानो यत्किञ्चित्प्राणवायुना स्त्रोतसा नीयते दारु यथा न…
551 प्रारब्धकर्मपरिकल्पितवासनाभिः संसारिवच्चरति भुक्तिषु मुक्तदेहः सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं चक्रस्य मूलम…
552 नैवेन्द्रियाणि विषयेषु नियुङ्क्त एष नैवापयुङ्क्त उपदर्शनलक्षणस्थः नैव क्रियाफलमपीषदवेक्षते सः स्वानन्दसान्द्ररसपान…
553 लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः || 553 || ॥
554 जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः उपाधिनाशाद्ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम् || 554 || ॥
555 शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः || 555 || ॥
556 यत्र क्वापि विशीर्णं सत्पर्णमिव तरोर्वपुः पततात् विशीर्णं पर्णमिव ब्रह्मीभूतस्य यतेः प्रागेव तच्चिदग्निना दग्धम् || …
557 सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाऽद्वयानन्दमयात्मना सदा न देशकालाद्युचितप्रतीक्षा त्वङ्मांसविट्पिण्डविसर्जनाय …
558 देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः || 558 || ॥
559 कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् || 559 || ॥
560 पत्रस्य पुष्पस्य फलस्य नाशवद् देहेन्द्रियप्राणधियां विनाशः नैवात्मनः स्वस्य सदात्मकस्य नन्दाकृतेर्वृक्षवदस्ति चैषः ||…
561 प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम् अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम् || 561 || ॥
562 अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु || 562 || ॥
563 पाषाणवृक्षतृणधान्यकडङ्कराद्या दग्धा भवन्ति हि मृदेव यथा तथैव देहेन्द्रियासुमनादि समस्तदृश्यं ज्ञानाग्निदग्धमुपया…
564 विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते || 564 || ॥
565 घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् || 565 || ॥
566 क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले संयुक्तमेकतां याति तथाऽऽत्मन्यात्मविन्मुनिः || 566 || ॥
567 एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः || 567 || ॥
568 सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः अमुष्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः || 568 || ॥
569 मायाक्लृप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ || 569 || ॥
570 आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् यद्यस्त्यद्वैतहानिः स्याद् द्वैतं नो…
571 बन्धञ्च मोक्षञ्च मृषैव मूढा बुद्धेर्गुणं वस्तुनि कल्पयन्ति दृगावृतिं मेघकृतां यथा रवौ यतोऽद्वयाऽसङ्गचिदेतदक्षरम्…
572 चिदेकमक्षरम् अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः || 572 || ॥
573 अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने अद्वितीये परे तत्त्वे व्योमव…
574 न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता || 574 || ॥
575 सकलनिगमचूडास्वान्तसिद्धान्तरूपं परमिदमतिगुह्यं दर्शितं ते मयाद्य अपगतकलिदोषं कामनिर्मुक्तबुद्धिः स्वसुतवदसकृत्त्…
576 इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः || 576 || ॥
577 गुरुरेव सदानन्दसिन्धौ निर्मग्नमानसः गुरुरेष पावयन्वसुधां सर्वां विचचार निरन्तरः || 577 || ॥
578 इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् निरूपितं मुमुक्षूणां सुखबोधोपपत्तये || 578 || ॥
579 हितमिदमुपदेशमाद्रियन्तां विहितनिरस्तसमस्तचित्तदोषाः भवसुखविरताः प्रशान्तचित्ताः सुखविमुखाः श्रुतिरसिका यतयो …
580 संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् अत्यासन्नसुधाम्बुध…