भानुप्रभासञ्जनिताभ्रपङ्क्तिःभानुं तिरोधाय विजृम्भते यथा ।आत्मोदिताहङ्कृतिरात्मतत्त्वंतथा तिरोधाय विजृम्भते स्वयम् || 142 || ॥