देहोऽहमित्येव जडस्य बुद्धिःदेहे च जीवे विदुषस्त्वहन्धीः ।विवेकविज्ञानवतो महात्मनोब्रह्माहमित्येव मतिः सदात्मनि || 160 || ॥