मनोमयो नापि भवेत्परात्माह्याद्यन्तवत्त्वात्परिणामिभावात् ।दुःखात्मकत्वाद्विषयत्वहेतोःद्रष्टा हि दृश्यात्मतया न दृष्टः || 183 || ॥