नित्यं विभुं सर्वगतं सुसूक्ष्मंअन्तर्बहिःशून्यमनन्यमात्मनः ।विज्ञाय सम्यङ्निजरूपमेतत्पुमान् विपाप्मा विरजो विमृत्युः || 221 || ॥