सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् ।न ह्यन्यदस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम् || 226 || ॥