ब्रह्मैवेदं विश्वमित्येव वाणीश्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा ।तस्मादेतद्ब्रह्ममात्रं हि विश्वंनाधिष्ठानाद्भिन्नताऽऽरोपितस्य || 231 || ॥