सत्याभिसन्धानरतो विमुक्तोमहत्त्वमात्मीयमुपैति नित्यम् ।मिथ्याभिसन्धानरतस्तु नश्येद्दृष्टं तदेतद्यदचौरचोरयोः || 332 || ॥