किमपि सततबोधं केवलानन्दरूपंनिरुपममतिवेलं नित्यमुक्तं निरीहम् ।निरवधिगगनाभं निष्कलं निर्विकल्पंहृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ || 408 || ॥