अजरममरमस्ताभाववस्तुस्वरूपं भासवस्तुस्तिमितसलिलराशिप्रख्यमाख्याविहीनम् ।शमितगुणविकारं शाश्वतं शान्तमेकंहृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ || 410 || ॥