निरस्तरागा विनिरस्तभोगाःशान्ताः सुदान्ता यतयो महान्तः ।विज्ञाय तत्त्वं परमेतदन्तेप्राप्ताः परां निर्वृतिमात्मयोगात् || 471 || ॥