सर्वाधारं सर्ववस्तुप्रकाशंसर्वाकारं सर्वगं सर्वशून्यम्नित्यं शुद्धं निश्चलं निर्विकल्पं निष्कलंब्रह्माद्वैतं यत्तदेवाहमस्मि || 513 || ॥