निगद्यतेऽन्तःकरणं मनोधीःअहङ्कृतचित्तमिति स्ववृत्तिभिः ।मनस्तु सङ्कल्पविकल्पनादिभिःबुद्धिःपदार्थाध्यवसायधर्मतः || 93 || ॥